(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.42. अध्यायः 042
Mahabharata - Shalya Parva - Chapter Topics
बलदेवस्यावाकीर्णतीर्थगमनम्॥ 1 ॥ बकमुनिचरित्रकथनम्॥ 2 ॥ बलदेवस्य ततो वसिष्ठापवाहतीर्थगमनम्॥ 3 ॥


Mahabharata - Shalya Parva - Chapter Text

वैशम्पायन उवाच। 9-42-0x(5185)(62548)
ब्रह्मयोनिभिराकीर्णं जगाम यद्वुनन्दनः।
यत्र दाल्भ्यो बको राजन्पश्वर्थ सुमहातपाः।
जुहाव धृतराष्ट्रस्य राष्ट्रं कोपसमन्वितः॥ 9-42-1(62549)
तपसा घोररूपेण कर्शयन्देहमात्मनः।
क्रोधेन महताऽऽविष्टो धर्मात्मा वै प्रतापवान्॥ 9-42-2(62550)
पुरा हि नैमिशीयानां सत्रे द्वादशवार्षिके।
वृत्ते विश्वजितोऽन्ते वै पाञ्चालानृषयोऽगमन्॥ 9-42-3(62551)
तत्रेश्वरमयाचन्त दक्षिणार्थं मनस्विनः।
`तत्र ते लेभिरे राजन्पाञ्चालेभ्यो महर्षयः।'
बलान्वितान्वत्सतरान्निर्व्याधीन्सप्तविंशतिम्॥ 9-42-4(62552)
तानब्रवीद्बलो दाल्भ्यो विभजध्वं पशूनिति।
पशूनेतानहं त्यक्त्वा भिक्षिष्ये राजसत्तमम्॥ 9-42-5(62553)
एवमुक्त्वा वको राजन्नृषीन्सर्वांन्प्रतापवान्।
जगाम धृतराष्ट्रस्य भवनं ब्राह्मणोत्तमः॥ 9-42-6(62554)
स समीपगतो भूत्वा धृतराष्ट्रं जनेश्वरम्।
अयाचत पशून्दाल्भ्यः स चैनं रुषितोऽब्रवीत्॥ 9-42-7(62555)
यदृच्छया मृता दृष्ट्वा गास्तदा नृपसत्तमः।
एतान्पशून्नय क्षिप्रं ब्रह्मबन्धो यदीच्छसि॥ 9-42-8(62556)
ऋषिस्त्वथ बकः क्रुद्धश्चिन्तयामास धर्मवित्।
अहो वत नृशंसं वै वाक्यमुक्तोऽस्मि संसदि॥ 9-42-9(62557)
चिन्तयित्वा मुहूर्तेन रोषाविष्टो द्विजोत्तमः।
मतिं चक्रे विनाशाय धृतराष्ट्रस्य भूपतेः॥ 9-42-10(62558)
स तूत्कृत्य मृतानां वै मांसानि मुनिसत्तमः।
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेः पुरा॥ 9-42-11(62559)
अवाकर्णे सरस्वत्यास्तीर्थे प्रज्वाल्य पावकम्।
xxxx दाल्भ्यो महाराज नियमं परमं स्थितः॥ 9-42-12(62560)
स तैरेव जुहावाग्नौ राष्ट्रं मांसैर्महातपः॥ 9-42-13(62561)
तस्मिंस्तु विधिवत्सत्रे सम्प्रवृत्ते सुदारुणे।
अक्षीयत ततो राष्ट्रं धृतराष्ट्रस्य पार्थिव॥ 9-42-14(62562)
छिxxxमानं xxxxxx परशुना विभो
xxxxxxxxxxxx व्यवकीर्थमचेतनम्॥ 9-42-15(62563)
दृष्ट्वा तथाऽवकीर्णं तु राष्ट्रं च मनुजाधिपः।
बभूव दुर्मना राजा चिन्तयामास च प्रभुः॥ 9-42-16(62564)
xxxxxxxxxरद्यत्रं ब्राह्मणैः सहितः पुरा।
xxxxxगच्छत्तु क्षीयते राष्ट्रमेव च॥ 9-42-17(62565)
यदा स पार्थिवः खिन्नस्ते च विप्रास्तदाऽनघ॥ 9-42-18(62566)
यदा चापि न शक्नोति राष्ट्रं मोक्षयितुं नृपः।
अथ विप्रादिकांस्तत्र पप्रच्छ जनमेजय॥ 9-42-19(62567)
ततो विप्रादिकाः प्राहुः पशुविप्रकृतस्त्वया।
मांसैरभिजुहोतीदं तव राष्ट्रं मुनिर्बकः॥ 9-42-20(62568)
तेन ते हूयमानस्य राष्ट्रस्यास्य क्षयो महान्।
तस्यैतत्तपसः कर्म येन तेऽद्य लयो महान्॥ 9-42-21(62569)
`यदीच्छसि महाबाहो शान्तिं राष्ट्रस्य भूमिप।'
अपां कुञ्जे सरस्वत्यास्तं प्रसादय पार्थिव॥ 9-42-22(62570)
वैशम्पायन उवाच। 9-42-23x(5186)
सरस्वतीं ततो गत्वा स राजा बकमब्रवीत्।
निपत्य शिरसा भूमौ प्राञ्जलिर्भरतर्षभ॥ 9-42-23(62571)
प्रसादये त्वां भगवन्नपराधं क्षमस्व मे।
मम दीनस्य लुब्धस्य मौर्ख्येण हतचेतसः।
त्वं गतिस्त्वं च मे नाथः प्रसादं कर्तुमर्हसि॥ 9-42-24(62572)
तं तथा विलपन्तं तु शोकोपहतचेतसम्।
दृष्ट्वा तस्य कृपा जज्ञे राष्ट्रं तस्य व्यमोचयत्॥ 9-42-25(62573)
ऋषिः प्रसन्नस्तस्याभूत्संरम्भं च विहाय सः।
मोक्षार्थं तस्य राज्यस्य जुहाव पुनराहुतिम्॥ 9-42-26(62574)
मोक्षयित्वा ततो र्ष्ट्रं प्रतिगृह्य पशून्बहून्।
हृष्टात्मा नैमिशारण्यं जगाम पुनरेव सः॥ 9-42-27(62575)
धृतराष्ट्रोऽपि धर्मात्मा स्वस्थचेता महामनाः।
स्वमेव नगरं राजन्प्रतिपेदे महर्द्धिमत्॥ 9-42-28(62576)
तत्र तीर्थे महाराज बृहस्पतिरुदारधीः।
असुराणामभावाय भवाय च दिवौकसाम्॥ 9-42-29(62577)
मांसैरभिजुहावेष्टिमक्षीयन्त ततोऽसुराः।
दैवतैरपि सम्भग्ना जितकाशिभिराहवे॥ 9-42-30(62578)
तत्रापि विधिवद्दत्त्वा ब्राह्मणेभ्यो महायशाः।
वाजिनः कुञ्जरांश्चैव रथांश्चश्वतरीयुतान्॥ 9-42-31(62579)
रत्नानि च महार्हाणि धनं धान्यं च पुष्कलम्।
ययौ तीर्थं महाबाहुर्यायातं पृथिवीपते॥ 9-42-32(62580)
तत्र यज्ञे ययातेश्च महाराज सरस्वती।
सर्पिः पयश्च सुस्राव नाहुषस्य महात्मनः॥ 9-42-33(62581)
तत्रेष्ट्वा पुरुषव्याघ्रो ययातिः पृथिवीपतिः।
आक्रामदूर्ध्वं पुदितो लेभे लोकांश्च पुष्कलान्॥ 9-42-34(62582)
पुनस्तत्र च राज्ञस्तु ययातेर्यजतः प्रभोः।
औदार्यं परमं कृत्वा भक्तिं चात्मनि शाश्वतीम्।
ददौ कामान्ब्राह्मणेभ्यो वान्यान्यो मनसेच्छति॥ 9-42-35(62583)
यो यत्र स्थित एवेह आहूतो यज्ञसंस्तरे।
तस्यतस्य सरिच्छ्रेष्ठा गृहादि शयनादिकम्।
षड्रसं भोजनं चैव दानं नानाविधं तथा॥ 9-42-36(62584)
ते मन्यमाना राज्ञस्तु सम्प्रदानमनुत्तमम्।
राजानं तुष्टुवुः प्रीता दत्त्वा चैवाशिषः शुभाः॥ 9-42-37(62585)
तत्र देवाः सगन्धर्वाः प्रीता यज्ञस्य सम्पदा।
विस्मिता मानुषाश्चासन्दृष्ट्वा तां यज्ञसम्पदम्॥ 9-42-38(62586)
ततस्तालकेतुर्महाधर्मकेतु--
र्महात्मा कृतात्मा महादाननित्यः।
वसिष्ठापवाहं महाभीमवेगं
धृतात्मा जितात्मा समभ्याजगाम॥ ॥ 9-42-39(62587)

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि द्विचत्वारिंशोऽध्यायः॥ 42 ॥

Mahabharata - Shalya Parva - Chapter Footnotes
9-42-1 ब्रह्मयोनेरवाकीर्णमिति झ.पाठः। तत्र ब्रह्मयोनेः ब्राह्मण्योत्पादकात्तीर्थादवाकीर्णं नाम द्वाल्भ्यसेवितं तीर्थं जगामेत्यर्थः ॥ 9-42-3 पाञ्चलान्विश्वजितो महत्मान्ते अगमन्॥ 9-42-4 ईश्वरं पाश्चालसजम्॥ 9-42-5 xxxxxxxxxxx खयं तत्र भागं न गृहीतवानित्यर्थः॥ 9-42-19 अथ वै प्राश्निकांस्तत्रेति झ पाठः॥ 9-42-42 द्विचत्वारिंशोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.